Sukta 10.87
रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥
र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भि॒: समि॑द्ध॒: स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥
rakṣó-haṇaṃ vā́jinam ā́ jigharmi mitráṃ práthiṣṭham úpa yāmi śárma | śiśā́no agníḥ krátubhiḥ sámiddhaḥ sá no divā́ sá riṣáḥ pātu náktam ||
I kindle and press forward the swift power that slays the disturbers; I approach the firm-founded Friend as a shelter. Agni, blazing with purposeful wills, kindled by our workings—may he guard us by day, may he guard us from injury by night.
र॒क्षः॒ऽहन॑म् । वा॒जिन॑म् । आ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि॑ष्ठम् । उप॑ । या॒मि॒ । शर्म॑ । शिशा॑नः । अ॒ग्निः । क्रतु॑ऽभिः । सम्ऽइ॑द्धः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥रक्षःहनम् । वाजिनम् । आ । जिघर्मि । मित्रम् । प्रथिष्ठम् । उप । यामि । शर्म । शिशानः । अग्निः । क्रतुभिः । सम्इद्धः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम् ॥rakṣaḥ-hanam | vājinam | ā | jigharmi | mitram | prathiṣṭham | upa | yāmi | śarma | śiśānaḥ | agniḥ | kratu-bhiḥ | sam-iddhaḥ | saḥ | naḥ | divā | saḥ | riṣaḥ | pātu | naktam