Sukta 10.87
सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः । अनु दह सहमूरान्क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः । अनु॑ दह स॒हमू॑रान्क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥
sanā́d agne mṛṇasi yātudhā́nān ná tvā rákṣāṃsi pṛ́tanāsu jigyuḥ | ánu daha sahámūrān kravyā́do mā́ te hetyā́ mukṣata daívyāyāḥ ||
From of old, O Agni, thou slayest the yātudhānas; the rakṣasas have not conquered thee in the battles. Burn after them—the corpse-eaters, the strong-deluders; let them not escape thy divine missile-force.
स॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒ऽधाना॑न् । न । त्वा॒ । रक्षां॑सि । पृत॑नासु । जि॒ग्युः॒ । अनु॑ । द॒ह॒ । स॒हऽमू॑रान् । क्र॒व्य॒ऽअदः॑ । मा । ते॒ । हे॒त्याः । मु॒क्ष॒त॒ । दैव्या॑याः ॥सनात् । अग्ने । मृणसि । यातुधानान् । न । त्वा । रक्षांसि । पृतनासु । जिग्युः । अनु । दह । सहमूरान् । क्रव्यअदः । मा । ते । हेत्याः । मुक्षत । दैव्यायाः ॥sanāt | agne | mṛṇasi | yātu-dhānān | na | tvā | rakṣāṃsi | pṛtanāsu | jigyuḥ | anu | daha | saha-mūrān | kravya-adaḥ | mā | te | hetyāḥ | mukṣata | daivyāyāḥ