Sukta 10.87
विषं गवां यातुधानाः पिबन्त्वा वृश्च्यन्तामदितये दुरेवाः । परैनान्देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥
वि॒षं गवां॑ यातु॒धाना॑: पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवा॑: । परै॑नान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ॥
viṣáṃ gavā́ṃ yātudhā́nāḥ pibantv ā́ vṛścyantā́m áditaye durévāḥ | párainān deváḥ savitā́ dadātu párā bhāgám óṣadhīnāṃ jayantām ||
Let the yātudhānas drink the poison of the cows; let the evil-doers be cut away for Aditi. Let Savitṛ, the god, deliver them far off; let them lose the portion of the healing powers (plants) and be defeated.
वि॒षम् । गवा॑म् । या॒तु॒ऽधानाः॑ । पि॒ब॒न्तु॒ । आ । वृ॒श्च्य॒न्ता॒म् । अदि॑तये । दुः॒ऽएवाः॑ । परा॑ । ए॒ना॒न् । दे॒वः । स॒वि॒ता । द॒दा॒तु॒ । परा॑ । भा॒गम् । ओष॑धीनाम् । ज॒य॒न्ता॒म् ॥विषम् । गवाम् । यातुधानाः । पिबन्तु । आ । वृश्च्यन्ताम् । अदितये । दुःएवाः । परा । एनान् । देवः । सविता । ददातु । परा । भागम् । ओषधीनाम् । जयन्ताम् ॥viṣam | gavām | yātu-dhānāḥ | pibantu | ā | vṛścyantām | aditaye | duḥ-evāḥ | parā | enān | devaḥ | savitā | dadātu | parā | bhāgam | oṣadhīnām | jayantām