Sukta 10.87
त्वं नो अग्ने अधरादुदक्तात्त्वं पश्चादुत रक्षा पुरस्तात् । प्रति ते ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥
त्वं नो॑ अग्ने अध॒रादुद॑क्ता॒त्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् । प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ॥
tvaṃ no agne adharād udaktāt tvaṃ paścād uta rakṣa purastāt | prati te te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu ||
O Agni, guard us from below and from above; guard us also from behind and from the front. In response to you, may your unaging, most burning flames consume the evil-speaking force that rages and seeks to harm.
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ध॒रात् । उद॑क्तात् । त्वम् । प॒श्चात् । उ॒त । र॒क्ष॒ । पु॒रस्ता॑त् । प्रति॑ । ते । ते॒ । अ॒जरा॑सः । तपि॑ष्ठाः । अ॒घऽशं॑सम् । शोशु॑चतः । द॒ह॒न्तु॒ ॥त्वम् । नः । अग्ने । अधरात् । उदक्तात् । त्वम् । पश्चात् । उत । रक्ष । पुरस्तात् । प्रति । ते । ते । अजरासः । तपिष्ठाः । अघशंसम् । शोशुचतः । दहन्तु ॥tvam | naḥ | agne | adharāt | udaktāt | tvam | paścāt | uta | rakṣa | purastāt | prati | te | te | ajarāsaḥ | tapiṣṭhāḥ | agha-śaṃsam | śośucataḥ | dahantu