Sukta 10.87
संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः । पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मन् ॥
सं॒व॒त্স॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः । पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ॥
saṃvatsarī́ṇaṃ páya usríyāyās tásya mā́ aśīd yātudhā́no nṛcákṣaḥ | pīyū́ṣam agne yatamáḥ titṛ́psāt táṃ pratyañcám arcíṣā vidhya márman ||
The year-long milk of the shining Cow—let not the yātudhāna taste it, O soul-seeing one. Whoever most seeks to drink the pīyūṣa (immortal sap), him—turning back upon us—pierce with thy flame in his vital spot.
स॒व्ँम्व॒त्स॒रीण॑म् । पयः॑ । उ॒स्रिया॑याः । तस्य॑ । मा । अ॒शी॒त् । या॒तु॒ऽधानः॑ । नृ॒ऽच॒क्षः॒ । पी॒यूष॑म् । अ॒ग्ने॒ । य॒त॒मः । तितृ॑प्सात् । तम् । प्र॒त्यञ्च॑म् । अ॒र्चिषा॑ । वि॒ध्य॒ । मर्म॑न् ॥सव्ँम्वत्सरीणम् । पयः । उस्रियायाः । तस्य । मा । अशीत् । यातुधानः । नृचक्षः । पीयूषम् । अग्ने । यतमः । तितृप्सात् । तम् । प्रत्यञ्चम् । अर्चिषा । विध्य । मर्मन् ॥saṃvatsarīṇam | payaḥ | usriyāyāḥ | tasya | mā | aśīt | yātu-dhānaḥ | nṛ-cakṣaḥ | pīyūṣam | agne | yatamaḥ | titṛpsāt | tam | pratyañcam | arciṣā | vidhya | marman