Sukta 10.87
यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः । यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥
यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धान॑: । यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥
yáḥ paúruṣeyeṇa kráviṣā samáṅkte yó aśvyéna paśúnā yātudhā́naḥ | yó aghnyā́yā bhárati kṣīrám agne téṣāṃ śīrṣā́ṇi hárasā́pi vṛśca ||
Whoever the yātudhāna is that anoints himself with human flesh, or with the horse-beast; and whoever brings the milk of the un-slain Cow—O Agni, with thy vehement force cut off their heads.
यः । पौरु॑षेयेण । क्र॒विषा॑ । स॒म्ऽअ॒ङ्क्ते । यः । अश्व्ये॑न । प॒शुना॑ । या॒तु॒ऽधानः॑ । यः । अ॒घ्न्यायाः॑ । भर॑ति । क्षी॒रम् । अ॒ग्ने॒ । तेषा॑म् । शी॒र्षाणि॑ । हर॑सा । अपि॑ । वृ॒श्च॒ ॥यः । पौरुषेयेण । क्रविषा । सम्अङ्क्ते । यः । अश्व्येन । पशुना । यातुधानः । यः । अघ्न्यायाः । भरति । क्षीरम् । अग्ने । तेषाम् । शीर्षाणि । हरसा । अपि । वृश्च ॥yaḥ | pauruṣeyeṇa | kraviṣā | sam-aṅkte | yaḥ | aśvyena | paśunā | yātu-dhānaḥ | yaḥ | aghnyāyāḥ | bharati | kṣīram | agne | teṣām | śīrṣāṇi | harasā | api | vṛśca