Sukta 10.87
यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः । मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥
यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः । म॒न्योर्मन॑सः शर॒व्या॒३॒॑ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥
yád agne adyá mithunā́ śápāto yád vā́cas tṛṣṭáṃ janáyanta rebhā́ḥ | manyór mánasaḥ śarávyā̀ jā́yate yā́ táyā vidhya hṛ́daye yātudhā́nān ||
If today, O Agni, from the paired forces (within) there arise curses, if the seers beget a sharpened edge of speech—then from the wrath of the mind a swift-flying arrow is born; with that strike the yātudhānas in the heart.
यत् । अ॒ग्ने॒ । अ॒द्य । मि॒थु॒ना । शपा॑तः । यत् । वा॒चः । तृ॒ष्टम् । ज॒नय॑न्त । रे॒भाः । म॒न्योः । मन॑सः । श॒र॒व्या॑ । जाय॑ते । या । तया॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् ॥यत् । अग्ने । अद्य । मिथुना । शपातः । यत् । वाचः । तृष्टम् । जनयन्त । रेभाः । मन्योः । मनसः । शरव्या । जायते । या । तया । विध्य । हृदये । यातुधानान् ॥yat | agne | adya | mithunā | śapātaḥ | yat | vācaḥ | tṛṣṭam | janayanta | rebhāḥ | manyoḥ | manasaḥ | śaravyā | jāyate | yā | tayā | vidhya | hṛdaye | yātu-dhānān