Sukta 10.87
तदग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् । अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥
तद॑ग्ने॒ चक्षु॒: प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान॑म् । अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ॥
tád agne cákṣuḥ práti dhehi rebhé śaphā́rujaṃ yéna páśyasi yātudhā́nam | atharvávaj jyótiṣā daívyena satyáṃ dhū́rvantam acítaṃ nyòṣa ||
Set in us, O Agni, that eye for the seer—the hoof-breaking vision by which thou discernest the yātudhāna. Then, Atharvan-like, with the divine light, strike down and cast away the unconscious falsifier who assails the Truth.
तत् । अ॒ग्ने॒ । चक्षुः॑ । प्रति॑ । धे॒हि॒ । रे॒भे । श॒फ॒ऽआ॒रुज॑म् । येन॑ । पश्य॑सि । या॒तु॒ऽधान॑म् । अ॒थ॒र्व॒ऽवत् । ज्योति॑षा । दैव्ये॑न । स॒त्यम् । धूर्व॑न्तम् । अ॒चित॑म् । नि । ओ॒ष॒ ॥तत् । अग्ने । चक्षुः । प्रति । धेहि । रेभे । शफआरुजम् । येन । पश्यसि । यातुधानम् । अथर्ववत् । ज्योतिषा । दैव्येन । सत्यम् । धूर्वन्तम् । अचितम् । नि । ओष ॥tat | agne | cakṣuḥ | prati | dhehi | rebhe | śapha-ārujam | yena | paśyasi | yātu-dhānam | atharva-vat | jyotiṣā | daivyena | satyam | dhūrvantam | acitam | ni | oṣa