Sukta 10.87
त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति । तमर्चिषा स्फूर्जयञ्जातवेदः समक्षमेनं गृणते नि वृङ्धि ॥
त्रिर्या॑तु॒धान॒: प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑ । तम॒र्चिषा॑ स्फू॒र्जय॑ञ्जातवेदः सम॒क्षमे॑नं गृण॒ते नि वृ॑ङ्धि ॥
trír yātudhā́naḥ prásitiṃ ta etv ṛtáṃ yó agne ánṛtena hánti | tám arcíṣā sphū́rjayan jātavedas samakṣám enaṃ gṛṇaté ní vṛṅdhi ||
Thrice let the yātudhāna fall into thy snare, O Agni—he who strikes the R̥ta with untruth. O Jātavedas, smiting him with thy flame, beat him down and crush him before the very eyes of the singer who affirms thee.
त्रिः । या॒तु॒ऽधानः॑ । प्रऽसि॑तिम् । ते॒ । ए॒तु॒ । ऋ॒तम् । यः । अ॒ग्ने॒ । अनृ॑तेन । हन्ति॑ । तम् । अ॒र्चिषा॑ । स्फू॒र्जय॑न् । जा॒त॒ऽवे॒दः॒ । स॒म्ऽअ॒क्षम् । ए॒न॒म् । गृ॒ण॒ते । नि । वृ॒ङ्धि॒ ॥त्रिः । यातुधानः । प्रसितिम् । ते । एतु । ऋतम् । यः । अग्ने । अनृतेन । हन्ति । तम् । अर्चिषा । स्फूर्जयन् । जातवेदः । सम्अक्षम् । एनम् । गृणते । नि । वृङ्धि ॥triḥ | yātu-dhānaḥ | pra-sitim | te | etu | ṛtam | yaḥ | agne | anṛtena | hanti | tam | arciṣā | sphūrjayan | jāta-vedaḥ | sam-akṣam | enam | gṛṇate | ni | vṛṅdhi