Sukta 10.86
अवीरामिव मामयं शरारुरभि मन्यते । उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥
अ॒वीरा॑मिव॒ माम॒यं श॒रारु॑र॒भि म॑न्यते । उ॒ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
avī́rām iva mā́m ayaṁ śarā́rur abhí manyate | utā́ham asmi vīríṇī́ indrā́patnī marútsakhā víśvasmād índra úttaraḥ ||
This restless one thinks of me as if I were without a hero-force. But I am a bearer of heroic power—the wife of Indra, companion of the Maruts. Indra is higher than all: therefore my strength cannot be diminished.
अ॒वीरा॑म्ऽइव । माम् । अ॒यम् । श॒रारुः॑ । अ॒भि । म॒न्य॒ते॒ । उ॒त । अ॒हम् । अ॒स्मि॒ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒रुत्ऽस॑खा । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥अवीराम्इव । माम् । अयम् । शरारुः । अभि । मन्यते । उत । अहम् । अस्मि । वीरिणी । इन्द्रपत्नी । मरुत्सखा । विश्वस्मात् । इन्द्रः । उत्तरः ॥avīrām-iva | mām | ayam | śarāruḥ | abhi | manyate | uta | aham | asmi | vīriṇī | indra-patnī | marut-sakhā | viśvasmāt | indraḥ | ut-taraḥ