Sukta 10.86
किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने । किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥
किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने । किं शू॑रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
kíṁ subāho svaṅgure pṛ́thuṣṭo pṛ́thujāghane | kíṁ śū́rapatni nas tvám abhy àmīṣi vṛṣā́kapiṁ víśvasmād índra úttaraḥ ||
Why, O fair-armed one, well-limbed, broad-backed, broad-hipped—why, O wife of the Hero, do you assail Vṛṣākapi? Indra is higher than all: let the higher light judge the lower impulses.
किम् । सु॒बा॒हो॒ इति॑ सुऽबाहो । सु॒ऽअ॒ङ्गु॒रे॒ । पृथु॑स्तो॒ इति॑ पृथु॑ऽस्तो । पृथु॑ऽजघने । किम् । शू॒र॒ऽप॒त्नि॒ । नः॒ । त्वम् । अ॒भि । अ॒मी॒षि॒ । वृ॒षाक॑पिम् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥किम् । सुबाहो इति सुबाहो । सुअङ्गुरे । पृथुस्तो इति पृथुस्तो । पृथुजघने । किम् । शूरपत्नि । नः । त्वम् । अभि । अमीषि । वृषाकपिम् । विश्वस्मात् । इन्द्रः । उत्तरः ॥kim | subāho itisu-bāho | su-aṅgure | pṛthusto itipṛthu-sto | pṛthu-jaghane | kim | śūra-patni | naḥ | tvam | abhi | amīṣi | vṛṣākapim | viśvasmāt | indraḥ | ut-taraḥ