Sukta 10.86
संहोत्रं स्म पुरा नारी समनं वाव गच्छति । वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥
सं॒हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति । वे॒धा ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
saṁhótraṁ sma purā́ nā́rī sámanaṁ vā́va gacchati | vedhā́ ṛtásya vīríṇī́ndrā́patnī mahīyate víśvasmād índra úttaraḥ ||
Formerly the woman went to the common rite, to the shared assembly of the offering. But now Indra’s heroic Shakti is magnified—she is the disposer of the Truth (ṛta). Indra is higher than all: by his height the rite becomes an inner union.
स॒म्ऽहो॒त्रम् । स्म॒ । पु॒रा । नारी॑ । सम॑नम् । वा॒ । अव॑ । ग॒च्छ॒ति॒ । वे॒धाः । ऋ॒तस्य॑ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒ही॒य॒ते॒ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥सम्होत्रम् । स्म । पुरा । नारी । समनम् । वा । अव । गच्छति । वेधाः । ऋतस्य । वीरिणी । इन्द्रपत्नी । महीयते । विश्वस्मात् । इन्द्रः । उत्तरः ॥sam-hotram | sma | purā | nārī | samanam | vā | ava | gacchati | vedhāḥ | ṛtasya | vīriṇī | indra-patnī | mahīyate | viśvasmāt | indraḥ | ut-taraḥ