Sukta 10.86
न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत् । न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्र उत्तरः ॥
न मत्स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् । न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
ná mat strī́ subhasátttarā ná suyā́śutarā bhuvat | ná mat práticyavīyasī ná sákthy udyámīyasī víśvasmād índra úttaraḥ ||
No woman is more richly seated in well-being than I, none more swift to attain the good. None can outmatch me, none can lift the thigh against me in contest; for Indra is higher than all—and his power upholds my victorious poise.
न । मत् । स्त्री । सु॒भ॒सत्ऽत॑रा । न । सु॒याशु॑ऽतरा । भु॒व॒त् । न । मत् । प्रति॑ऽच्यवीयसी । न । सक्थि॑ । उत्ऽय॑मीयसी । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥न । मत् । स्त्री । सुभसत्तरा । न । सुयाशुतरा । भुवत् । न । मत् । प्रतिच्यवीयसी । न । सक्थि । उत्यमीयसी । विश्वस्मात् । इन्द्रः । उत्तरः ॥na | mat | strī | subhasat-tarā | na | suyāśu-tarā | bhuvat | na | mat | prati-cyavīyasī | na | sakthi | ut-yamīyasī | viśvasmāt | indraḥ | ut-taraḥ