Sukta 10.86
प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत् । शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥
प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत् । शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते॑ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
priyā́ táṣṭāni me kapír vyàktā́ vy àdūduṣat | śíro nv asya rāviṣaṁ ná sugáṁ duṣkṛ́te bhuvaṁ víśvasmād índra úttaraḥ ||
The dear, well-fashioned powers in me—the kapi-force—have become manifest and have shaken loose what was bound. Yet I have bruised his head: for wrong-doing there is no easy path. Indra stands higher than all, to set the energies into right measure.
प्रि॒या । त॒ष्टानि॑ । मे॒ । क॒पिः । विऽअ॑क्ता । वि । अ॒दू॒दु॒ष॒त् । शिरः॑ । नु । अ॒स्य॒ । रा॒वि॒ष॒म् । न । सु॒ऽगम् । दुः॒ऽकृते॑ । भु॒व॒म् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥प्रिया । तष्टानि । मे । कपिः । विअक्ता । वि । अदूदुषत् । शिरः । नु । अस्य । राविषम् । न । सुगम् । दुःकृते । भुवम् । विश्वस्मात् । इन्द्रः । उत्तरः ॥priyā | taṣṭāni | me | kapiḥ | vi-aktā | vi | adūduṣat | śiraḥ | nu | asya | rāviṣam | na | su-gam | duḥ-kṛte | bhuvam | viśvasmāt | indraḥ | ut-taraḥ