Sukta 10.86
किमयं त्वां वृषाकपिश्चकार हरितो मृगः । यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥
किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः । यस्मा॑ इर॒स्यसीदु॒ न्व१॒॑र्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
kím ayaṁ tvāṁ vṛṣā́kapiś cakā́ra hárīto mṛgáḥ | yásmā irasyásīd u nv àryó vā puṣṭímad vásu víśvasmād índra úttaraḥ ||
What has this Vṛṣākapi, this tawny force of the life-nature, done to you? For whom do you burn with jealousy? Is it for the noble who bears the wealth of increase? Yet Indra—the master of luminous power—stands higher than all that is.
किम् । अ॒यम् । त्वाम् । वृ॒षाक॑पिः । च॒कार॑ । हरि॑तः । मृ॒गः । यस्मै॑ । इ॒र॒स्यसि॑ । इत् । ऊँ॒ इति॑ । नु । अ॒र्यः । वा॒ । पु॒ष्टि॒ऽमत् । वसु॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥किम् । अयम् । त्वाम् । वृषाकपिः । चकार । हरितः । मृगः । यस्मै । इरस्यसि । इत् । ऊँ इति । नु । अर्यः । वा । पुष्टिमत् । वसु । विश्वस्मात् । इन्द्रः । उत्तरः ॥kim | ayam | tvām | vṛṣākapiḥ | cakāra | haritaḥ | mṛgaḥ | yasmai | irasyasi | it | oṃ iti | nu | aryaḥ | vā | puṣṭi-mat | vasu | viśvasmāt | indraḥ | ut-taraḥ