Sukta 10.86
यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन । क्व स्य पुल्वघो मृगः कमगञ्जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥
यदुद॑ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन । क्व१॒॑ स्य पु॑ल्व॒घो मृ॒गः कम॑गञ्जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
yad udañco vṛṣākape gṛham indrājagantana | kva sya pulvagho mṛgaḥ kam agan jana-yopanaḥ viśvasmād indra uttarāḥ ||
When you two, going northward, O Vṛṣākapi, came to the home, O Indra—where is that beast, the dust-stirrer, the people-disturber; to whom has he gone? Thus Indra rises beyond all.
यत् । उद॑ञ्चः । वृ॒षा॒क॒पे॒ । गृ॒हम् । इ॒न्द्र॒ । अज॑गन्तन । क्व॑ । स्यः । पु॒ल्व॒घः । मृ॒गः । कम् । अ॒ग॒न् । ज॒न॒ऽयोप॑नः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥यत् । उदञ्चः । वृषाकपे । गृहम् । इन्द्र । अजगन्तन । क्व । स्यः । पुल्वघः । मृगः । कम् । अगन् । जनयोपनः । विश्वस्मात् । इन्द्रः । उत्तरः ॥yat | udañcaḥ | vṛṣākape | gṛham | indra | ajagantana | kva | syaḥ | pulvaghaḥ | mṛgaḥ | kam | agan | jana-yopanaḥ | viśvasmāt | indraḥ | ut-taraḥ