Sukta 10.86
पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् । भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥
पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम् । भ॒द्रं भ॑ल॒ त्यस्या॑ अभू॒द्यस्या॑ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
parśúr ha nā́ma mānavī sā́kaṃ sasūva viṃśatím | bhadráṃ bhala tyásyā abhūd yásyā udáram ā́mayad víśvasmād índra úttaraḥ ||
Parśu, the human woman, indeed brought forth twenty at once; a fortunate good came to her—she whose womb was afflicted—because Indra rose above all and bore her beyond the universal pressure.
पशुः॑ । ह॒ । नाम॑ । मा॒न॒वी । सा॒कम् । स॒सू॒व॒ । विं॒श॒तिम् । भ॒द्रम् । भ॒ल॒ । त्यस्यै॑ । अ॒भू॒त् । यस्याः॑ । उ॒दर॑म् । आम॑यत् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥पशुः । ह । नाम । मानवी । साकम् । ससूव । विंशतिम् । भद्रम् । भल । त्यस्यै । अभूत् । यस्याः । उदरम् । आमयत् । विश्वस्मात् । इन्द्रः । उत्तरः ॥paśuḥ | ha | nāma | mānavī | sākam | sasūva | viṃśatim | bhadram | bhala | tyasyai | abhūt | yasyāḥ | udaram | āmayat | viśvasmāt | indraḥ | ut-taraḥ