Sukta 10.86
पुनरेहि वृषाकपे सुविता कल्पयावहै । य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः ॥
पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै । य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
punar ehi vṛṣākape suvitā kalpayāvahai | ya eṣa svapna-naṃśano ’stam eṣi pathā punar viśvasmād indra uttarāḥ ||
Return again, O Vṛṣākapi; let us set in order the good going. For this is the path that destroys dream-delusion, by which thou goest home again—thus Indra rises beyond all.
पुनः॑ । आ । इ॒हि॒ । वृ॒षा॒क॒पे॒ । सु॒वि॒ता । क॒ल्प॒या॒व॒है॒ । यः । ए॒षः । स्व॒प्न॒ऽनंश॑नः । अस्त॑म् । एषि॑ । प॒था । पुनः॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥पुनः । आ । इहि । वृषाकपे । सुविता । कल्पयावहै । यः । एषः । स्वप्ननंशनः । अस्तम् । एषि । पथा । पुनः । विश्वस्मात् । इन्द्रः । उत्तरः ॥punaḥ | ā | ihi | vṛṣākape | suvitā | kalpayāvahai | yaḥ | eṣaḥ | svapna-naṃśanaḥ | astam | eṣi | pathā | punaḥ | viśvasmāt | indraḥ | ut-taraḥ