Sukta 10.86
धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना । नेदीयसो वृषाकपेऽस्तमेहि गृहाँ उप विश्वस्मादिन्द्र उत्तरः ॥
धन्व॑ च॒ यत्कृ॒न्तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना । नेदी॑यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā | nedīyaso vṛṣākape ’stam ehi gṛhā̃ upa viśvasmād indra uttarāḥ ||
How many leagues are those—across the open waste and the cut-through paths? Come nearer, O Vṛṣākapi; come home to the houses: thus Indra rises beyond all.
धन्व॑ । च॒ । यत् । कृ॒न्तत्र॑म् । च॒ । कति॑ । स्वि॒त् । ता । वि । योज॑ना । नेदी॑यसः । वृ॒षा॒क॒पे॒ । अस्त॑म् । आ । इ॒हि॒ । गृ॒हान् । उप॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥धन्व । च । यत् । कृन्तत्रम् । च । कति । स्वित् । ता । वि । योजना । नेदीयसः । वृषाकपे । अस्तम् । आ । इहि । गृहान् । उप । विश्वस्मात् । इन्द्रः । उत्तरः ॥dhanva | ca | yat | kṛntatram | ca | kati | svit | tā | vi | yojanā | nedīyasaḥ | vṛṣākape | astam | ā | ihi | gṛhān | upa | viśvasmāt | indraḥ | ut-taraḥ