Sukta 10.86
अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत् । असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥
अ॒यमि॑न्द्र वृ॒षाक॑पि॒: पर॑स्वन्तं ह॒तं वि॑दत् । अ॒सिं सू॒नां नवं॑ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
ayam indra vṛṣākapiḥ parasvantaṃ hataṃ vidat | asim sūnāṃ navaṃ carum ād edhasyāna ācitaṃ viśvasmād indra uttarāḥ ||
This Vṛṣākapi, O Indra, has found the slain Parasvant; he has taken the sword, the pressed Soma, the new cooked offering, and the cart piled with fuel—thus Indra rises beyond all.
अ॒यम् । इ॒न्द्र॒ । वृ॒षाक॑पिः । पर॑स्वन्तम् ह॒तम् । वि॒द॒त् । अ॒सिम् । सू॒नाम् । नव॑म् । च॒रुम् । आत् । एध॑स्य । अनः॑ । आऽचि॑तम् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥अयम् । इन्द्र । वृषाकपिः । परस्वन्तम् हतम् । विदत् । असिम् । सूनाम् । नवम् । चरुम् । आत् । एधस्य । अनः । आचितम् । विश्वस्मात् । इन्द्रः । उत्तरः ॥ayam | indra | vṛṣākapiḥ | parasvantam hatam | vidat | asim | sūnām | navam | carum | āt | edhasya | anaḥ | ācitam | viśvasmāt | indraḥ | ut-taraḥ