Sukta 10.86
न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत् । सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥
न सेशे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॒॑ कपृ॑त् । सेदी॑शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
na seśe yasya rambate ’ntarā sakthyā kapṛt | sedīśe yasya romaśaṃ ni-seduṣo vi-jṛmbhate viśvasmād indra uttarāḥ ||
He has no mastery whose furtive urge writhes between the thighs; but he has mastery whose shaggy strength, once seated, expands and awakens—thus Indra rises beyond all.
न । सः । ई॒शे॒ । यस्य॑ । रम्ब॑ते । अ॒न्त॒रा । स॒क्थ्या॑ । कपृ॑त् । सः । इत् । ई॒शे॒ । यस्य॑ । रो॒म॒शम् । नि॒ऽसे॒दुषः॑ । वि॒ऽजृम्भ॑ते । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥न । सः । ईशे । यस्य । रम्बते । अन्तरा । सक्थ्या । कपृत् । सः । इत् । ईशे । यस्य । रोमशम् । निसेदुषः । विजृम्भते । विश्वस्मात् । इन्द्रः । उत्तरः ॥na | saḥ | īśe | yasya | rambate | antarā | sakthyā | kapṛt | saḥ | it | īśe | yasya | romaśam | ni-seduṣaḥ | vi-jṛmbhate | viśvasmāt | indraḥ | ut-taraḥ