Sukta 10.86
वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत् । मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥
वृ॒ष॒भो न ति॒ग्मशृ॑ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् । म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
vṛṣabho na tigma-śṛṅgo ’ntar yūtheṣu roruvat | manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttarāḥ ||
Like a bull with sharp horns roaring amid the herds, so is thy churning, O Indra, a peace to the heart—this pressing which the awakener prepares for thee; thereby Indra becomes higher than all.
वृ॒ष॒भः । न । ति॒ग्मऽशृ॑ङ्गः । अ॒न्तः । यू॒थेषु॑ । रोरु॑वत् । म॒न्थः । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे । यम् । ते॒ । सु॒नोति॑ । भा॒व॒युः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥वृषभः । न । तिग्मशृङ्गः । अन्तः । यूथेषु । रोरुवत् । मन्थः । ते । इन्द्र । शम् । हृदे । यम् । ते । सुनोति । भावयुः । विश्वस्मात् । इन्द्रः । उत्तरः ॥vṛṣabhaḥ | na | tigma-śṛṅgaḥ | antaḥ | yūtheṣu | roruvat | manthaḥ | te | indra | śam | hṛde | yam | te | sunoti | bhāvayuḥ | viśvasmāt | indraḥ | ut-taraḥ