Sukta 10.86
उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम् । उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥
उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच॑न्ति विंश॒तिम् । उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
ukṣṇo hi me pañca-daśa sākam pacanti viṃśatim | utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttarāḥ ||
For me they cook fifteen bulls together with twenty; and I too eat of the rich fatness—both my bellies are filled: thus Indra grows higher than all that limits.
उ॒क्ष्णः । हि । मे॒ । पञ्च॑ऽदश । सा॒कम् । पच॑न्ति । विं॒श॒तिम् । उ॒त । अ॒हम् । अ॒द्मि॒ । पीवः॑ । इत् । उ॒भा । कु॒क्षी इति॑ । पृ॒ण॒न्ति॒ । मे॒ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥उक्ष्णः । हि । मे । पञ्चदश । साकम् । पचन्ति । विंशतिम् । उत । अहम् । अद्मि । पीवः । इत् । उभा । कुक्षी इति । पृणन्ति । मे । विश्वस्मात् । इन्द्रः । उत्तरः ॥ukṣṇaḥ | hi | me | pañca-daśa | sākam | pacanti | viṃśatim | uta | aham | admi | pīvaḥ | it | ubhā | kukṣī iti | pṛṇanti | me | viśvasmāt | indraḥ | ut-taraḥ