Sukta 10.86
वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे । घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥
वृषा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे । घस॑त्त॒ इन्द्र॑ उ॒क्षण॑: प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
vṛṣākapāyi revati suputra ādu susnuṣe | ghasat te indra ukṣaṇaḥ priyam kācit-karam havir viśvasmād indra uttarāḥ ||
O Revati, O rich in luminous increase, O bearer of a good son—yes, O good daughter-in-law: may Indra, the virile Bull-force, consume for thee a dear and effective offering, and rise in us beyond all limiting powers.
वृषा॑कपायि । रेव॑ति । सुऽपु॑त्रे । आत् । ऊँ॒ इति॑ । सुऽस्नु॑षे । घस॑त् । ते॒ । इन्द्रः॑ । उ॒क्षणः॑ । प्रि॒यम् । का॒चि॒त्ऽक॒रम् । ह॒विः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥वृषाकपायि । रेवति । सुपुत्रे । आत् । ऊँ इति । सुस्नुषे । घसत् । ते । इन्द्रः । उक्षणः । प्रियम् । काचित्करम् । हविः । विश्वस्मात् । इन्द्रः । उत्तरः ॥vṛṣākapāyi | revati | su-putre | āt | oṃ iti | su-snuṣe | ghasat | te | indraḥ | ukṣaṇaḥ | priyam | kācit-karam | haviḥ | vi śvasmāt | indraḥ | ut-taraḥ