Sukta 10.86
नाहमिन्द्राणि रारण सख्युर्वृषाकपेॠते । यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ॥
नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेॠ॒ते । यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
nā́ham indrāṇi rāraṇa sákhyur vṛṣā́kape ṛté | yásyedám ápyaṁ havíḥ priyáṁ devéṣu gácchati víśvasmād índra úttaraḥ ||
I do not delight, O Indrāṇī, in friendship apart from Vṛṣākapi—for his offering, born of the waters of life, goes dear among the gods. Yet Indra is higher than all: let every friendship be lifted into the truth of the higher will.
न । अ॒हम् । इ॒न्द्रा॒णि॒ । र॒र॒ण॒ । सख्युः॑ । वृ॒षाक॑पेः । ऋ॒ते । यस्य॑ । इ॒दम् । अप्य॑म् । ह॒विः । प्रि॒यम् । दे॒वेषु । गच्छ॑ति । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥न । अहम् । इन्द्राणि । ररण । सख्युः । वृषाकपेः । ऋते । यस्य । इदम् । अप्यम् । हविः । प्रियम् । देवेषु । गच्छति । विश्वस्मात् । इन्द्रः । उत्तरः ॥na | aham | indrāṇi | raraṇa | sakhyuḥ | vṛṣākapeḥ | ṛte | yasya | idam | apyam | haviḥ | priyam | deveṣu | gacchati | viśvasmāt | indraḥ | ut-taraḥ