Sukta 10.86
इन्द्राणीमासु नारिषु सुभगामहमश्रवम् । नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥
इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवम् । न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
indrā́ṇīm ā́su nā́riṣu subhágām ahám aśravam | náhy asyā́ aparaṁ caná jarásā márate pátiḥ víśvasmād índra úttaraḥ ||
Among women I have heard of Indrāṇī as the most fortunate: for her husband does not wither away with age—no other surpasses this. Indra is higher than all: in the soul’s alliance with him, the force does not decay.
इ॒न्द्रा॒णीम् । आ॒सु । नारि॑षु । सु॒ऽभगा॑म् । अ॒हम् । अ॒श्र॒व॒म् । न॒हि । अ॒स्याः॒ । अ॒प॒रम् । च॒न । ज॒रसा॑ । मर॑ते । पतिः॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥इन्द्राणीम् । आसु । नारिषु । सुभगाम् । अहम् । अश्रवम् । नहि । अस्याः । अपरम् । चन । जरसा । मरते । पतिः । विश्वस्मात् । इन्द्रः । उत्तरः ॥indrāṇīm | āsu | nāriṣu | su-bhagām | aham | aśravam | nahi | asyāḥ | aparam | cana | jarasā | marate | patiḥ | viśvasmāt | indraḥ | ut-taraḥ