Sukta 10.85
सोमो वधूयुरभवदश्विनास्तामुभा वरा । सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात् ॥
सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा । सू॒र्यां यत्पत्ये॒ शंस॑न्तीं॒ मन॑सा सवि॒ताद॑दात् ॥
sómo vadhūyúr abhavad aśvínāstām ubhā́ varā́ | sū́ryāṁ yát pátye śáṃsantīṁ mánasā savitā́ ádadāt ||
Soma became the wooer of the bride; the two Aśvins stood as the chosen pair. When Sūryā, affirming her lord, Savitṛ gave her by the mind—by the consenting inner will that seals the union in truth.
सोमः॑ । व॒धू॒ऽयुः । अ॒भ॒व॒त् । अ॒श्विना॑ । आ॒स्ता॒म् । उ॒भा । व॒रा । सू॒र्याम् । यत् । पत्ये॑ । शंस॑न्तीम् । मन॑सा । स॒वि॒ता । अद॑दात् ॥सोमः । वधूयुः । अभवत् । अश्विना । आस्ताम् । उभा । वरा । सूर्याम् । यत् । पत्ये । शंसन्तीम् । मनसा । सविता । अददात् ॥somaḥ | vadhū-yuḥ | abhavat | aśvinā | āstām | ubhā | varā | sūryām | yat | patye | śaṃsantīm | manasā | savitā | adadāt