Sukta 10.85
चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् । द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥
चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम् । द्यौर्भूमि॒: कोश॑ आसी॒द्यदया॑त्सू॒र्या पति॑म् ॥
cíttirā upabárhaṇaṁ cákṣurā abhyáñjanam | dyáur bhū́miḥ kóśa āsīd yád ayāt sū́ryā pátiṃ ||
Awakening thought was her cushion; seeing vision was her anointing. Heaven and Earth became the casket when Sūryā went to the husband—when luminous consciousness entered the ordained union within the worlds.
चित्तिः॑ । आः॒ । उ॒प॒ऽबर्ह॑णम् । चक्षुः॑ । आः॒ । अ॒भि॒ऽअञ्ज॑नम् । द्यौः । भूमिः॑ । कोशः॑ । आ॒सी॒त् । यत् । अया॑त् । सू॒र्या । पति॑म् ॥चित्तिः । आः । उपबर्हणम् । चक्षुः । आः । अभिअञ्जनम् । द्यौः । भूमिः । कोशः । आसीत् । यत् । अयात् । सूर्या । पतिम् ॥cittiḥ | āḥ | upa-barhaṇam | cakṣuḥ | āḥ | abhi-añjanam | dyauḥ | bhūmiḥ | kośaḥ | āsīt | yat | ayāt | sūryā | patim