Sukta 10.85
रैभ्यासीदनुदेयी नाराशंसी न्योचनी । सूर्याया भद्रमिद्वासो गाथयैति परिष्कृतम् ॥
रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी । सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ॥
raibhýāsīd anudéyī nārāśaṁsī nyòcanī | sū́ryāyā bhadrám íd vā́so gā́thayaiti páriṣkṛtam ||
Raibhī was the attendant giver; Nārāśaṃsī the settling adornment. For Sūryā, the auspicious garment—perfectly arranged—moves forward with the chant: the soul is clothed in a formed beauty for the new union.
रैभी॑ । आ॒सी॒त् । अ॒नु॒ऽदेयी॑ । ना॒रा॒शं॒सी । नि॒ऽओच॑नी । सू॒र्यायाः॑ । भ॒द्रम् । इत् । वासः॑ । गाथ॑या । ए॒ति॒ । परि॑ऽकृतम् ॥रैभी । आसीत् । अनुदेयी । नाराशंसी । निओचनी । सूर्यायाः । भद्रम् । इत् । वासः । गाथया । एति । परिकृतम् ॥raibhī | āsīt | anu-deyī | nārāśaṃsī | ni-ocanī | sūryāyāḥ | bhadram | it | vāsaḥ | gāthayā | eti | pari-kṛtam