Sukta 10.85
यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः । वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥
यत्त्वा॑ देव प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुन॑: । वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥
yát tvā deva prapíbanti táta ā́ pyāyase púnaḥ | vāyúḥ sómasya rakṣitā́ samā́nāṁ mā́sa ā́kṛtiḥ ||
When the gods drink you, O luminous one, from that you swell again anew. Vāyu is the guardian of Soma; and the Month is the shaping form of the cycles—by which the delight is renewed in us.
यत् । त्वा॒ । दे॒व॒ । प्र॒ऽपिब॑न्ति । ततः॑ । आ । प्या॒य॒से॒ । पुन॒रिति॑ । वा॒युः । सोम॑स्य । र॒क्षि॒ता । समा॑नाम् । मासः॑ । आऽकृ॑तिः ॥यत् । त्वा । देव । प्रपिबन्ति । ततः । आ । प्यायसे । पुनरिति । वायुः । सोमस्य । रक्षिता । समानाम् । मासः । आकृतिः ॥yat | tvā | deva | pra-pibanti | tataḥ | ā | pyāyase | punariti | vāyuḥ | somasya | rakṣitā | samānām | māsaḥ | ākṛtiḥ