Sukta 10.85
इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु । दशास्यां पुत्राना धेहि पतिमेकादशं कृधि ॥
इ॒मां त्वमि॑न्द्र मीढ्वः सुपु॒त्रां सु॒भगां॑ कृणु । दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ॥
imā́ṃ tvám indra mīḍhvaḥ suputrā́ṃ subhágāṃ kṛṇu | dáśāsyāṃ putrā́n ā́ dhehi pátim ekādaśáṃ kṛdhi ||
This woman, O Indra, giver of increase—make her rich in true offspring and fortunate in her being. Place in her ten sons, and make the husband the eleventh: the completing power that holds the whole.
इ॒माम् । त्वम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒ऽपु॒त्राम् । सु॒ऽभगा॑म् । कृ॒णु॒ । दश॑ । अ॒स्या॒म् । पु॒त्रान् । आ । धे॒हि॒ । पति॑म् । ए॒का॒द॒शम् । कृ॒धि॒ ॥इमाम् । त्वम् । इन्द्र । मीढ्वः । सुपुत्राम् । सुभगाम् । कृणु । दश । अस्याम् । पुत्रान् । आ । धेहि । पतिम् । एकादशम् । कृधि ॥imām | tvam | indra | mīḍhavaḥ | su-putrām | su-bhagām | kṛṇu | daśa | asyām | putrān | ā | dhehi | patim | ekādaśam | kṛdhi