Sukta 10.85
पुनः पत्नीमग्निरदादायुषा सह वर्चसा । दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥
पुन॒: पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा । दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रद॑: श॒तम् ॥
púnaḥ pátnīm agnír adād ā́yuṣā saha várcasā | dīrghā́yur asyā́ yáḥ pátir jī́vāti śarádaḥ śatám ||
Again Agni has given the wife—together with life-force and luminous strength. Long-lived is her husband: he lives a hundred autumns, sustained in the ordered rhythm of time.
पुन॒रिति॑ । पत्नी॑म् । अ॒ग्निः । अ॒दा॒त् । आयु॑षा । स॒ह । वर्च॑सा । दी॒र्घऽआ॑युः । अ॒स्याः॒ । यः । पतिः॑ । जीवा॑ति । श॒रदः॑ । श॒तम् ॥पुनरिति । पत्नीम् । अग्निः । अदात् । आयुषा । सह । वर्चसा । दीर्घआयुः । अस्याः । यः । पतिः । जीवाति । शरदः । शतम् ॥punariti | patnīm | agniḥ | adāt | āyuṣā | saha | varcasā | dīrgha-āyuḥ | asyāḥ | yaḥ | patiḥ | jīvāti | śaradaḥ | śatam