Sukta 10.85
तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह । पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥
तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह । पुन॒: पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ॥
túbhyam ágre páry avahan sū́ryāṃ vahatúnā saha | púnaḥ pátibhyo jāyā́ṃ dā agne prajā́yā saha ||
To you first they carried Sūryā around with the bridal procession; now, O Agni, give her back to the husbands as wife—together with the power of progeny and inner continuance.
तुभ्य॑म् । अग्रे॑ । परि॑ । अ॒व॒ह॒न् । सू॒र्याम् । व॒ह॒तुना॑ । स॒ह । पुन॒रिति॑ । पति॑ऽभ्यः । जा॒याम् । दाः । अ॒ग्ने॒ । प्र॒ऽजया॑ । स॒ह ॥तुभ्यम् । अग्रे । परि । अवहन् । सूर्याम् । वहतुना । सह । पुनरिति । पतिभ्यः । जायाम् । दाः । अग्ने । प्रजया । सह ॥tubhyam | agre | pari | avahan | sūryām | vahatunā | saha | punariti | pati-bhyaḥ | jāyām | dāḥ | agne | pra-jayā | saha