Sukta 10.85
सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥
सोम॑: प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः । तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥
sómaḥ prathamó vívide gandharvó vívida úttaraḥ | tṛtī́yo agníṣ te pátiḥ turī́yas te manuṣyajā́ḥ ||
Soma first found you—the delight of the soul. Then the Gandharva found you, the luminous guardian of the subtle harmony. Third, Agni became your lord—the divine Will that establishes the right union. Fourth are the human-born who complete the outer form of the rite in life.
सोमः॑ । प्र॒थ॒मः । वि॒वि॒दे॒ । ग॒न्ध॒र्वः । वि॒वि॒दे॒ । उत्ऽत॑रः । तृ॒तीयः॑ । अ॒ग्निः । ते॒ । पतिः॑ । तु॒रीयः॑ । ते॒ । म॒नु॒ष्य॒ऽजाः ॥सोमः । प्रथमः । विविदे । गन्धर्वः । विविदे । उत्तरः । तृतीयः । अग्निः । ते । पतिः । तुरीयः । ते । मनुष्यजाः ॥somaḥ | prathamaḥ | vivide | gandharvaḥ | vivide | ut-taraḥ | tṛtīyaḥ | agniḥ | te | patiḥ | turīyaḥ | te | manuṣya-jāḥ