Sukta 10.85
तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम् ॥
तां पू॑षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३॒॑ वप॑न्ति । या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शन्त॑: प्र॒हरा॑म॒ शेप॑म् ॥
tā́ṃ pū́ṣañ chivátamām érayasva yásyāṃ bī́jaṃ manuṣyā́ vapánti | yā́ na ūrū́ uśatī́ viśráyāte yásyām uśántaḥ prahárāma śépam ||
O Pūṣan, set her in motion toward the most benign fulfilment, she in whom men sow the seed of continuance. She who, desiring, opens wide her thighs for us—into her, in love and aspiration, we cast the creative power.
ताम् । पू॒ष॒न् । शि॒वऽत॑माम् । आ । ई॒र॒य॒स्व॒ । यस्या॑म् । बीज॑म् । म॒नु॒ष्याः॑ । वप॑न्ति । या । नः॒ । ऊ॒रू इति॑ । उ॒श॒ती । वि॒ऽश्रया॑ते । यस्या॑म् । उ॒शन्तः॑ । प्र॒ऽहरा॑म । शेप॑म् ॥ताम् । पूषन् । शिवतमाम् । आ । ईरयस्व । यस्याम् । बीजम् । मनुष्याः । वपन्ति । या । नः । ऊरू इति । उशती । विश्रयाते । यस्याम् । उशन्तः । प्रहराम । शेपम् ॥tām | pūṣan | śiva-tamām | ā | īrayasva | yasyām | bījam | manuṣyāḥ | vapanti | yā | naḥ | ūrū iti | uśatī | vi-śrayāte | yasyām | uśantaḥ | pra-harāmaḥśepam