Sukta 10.85
गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः । भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥
गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथास॑: । भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥
gṛbhṇā́mi te saubhagatvā́ya hástaṃ máyā pátyā jaradáṣṭir yáthā́saḥ | bhágo aryamā́ savitā́ púraṃdhir máhyaṃ tvā́dur gārhapatyā́ya devā́ḥ ||
I take your hand for the attainment of inner good-fortune, so that with me as your husband you may grow old in strength. Bhaga, Aryaman, Savitṛ, and Purandhi—the gods—have given you to me for the steadfast fire of the home, for the enduring hearth of the soul.
गृ॒भ्णामि॑ । ते॒ । सौ॒भ॒ग॒ऽत्वाय॑ । हस्त॑म् । मया॑ । पत्या॑ । ज॒रत्ऽअ॑ष्टिः । यथा॑ । असः॑ । भगः॑ । अ॒र्य॒मा । स॒वि॒ता । पुर॑म्ऽधिः । मह्य॑म् । त्वा॒ । अ॒दुः॒ । गार्ह॑ऽपत्याय । दे॒वाः ॥गृभ्णामि । ते । सौभगत्वाय । हस्तम् । मया । पत्या । जरत्अष्टिः । यथा । असः । भगः । अर्यमा । सविता । पुरम्धिः । मह्यम् । त्वा । अदुः । गार्हपत्याय । देवाः ॥gṛbhṇāmi | te | saubhaga-tvāya | hastam | mayā | patyā | jarat-aṣṭiḥ | yathā | asaḥ | bhagaḥ | aryamā | savitā | puram-dhiḥ | mahyam | tvā | aduḥ | gārha-patyāya | devāḥ