Sukta 10.85
सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन ॥
सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त । सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥
sumangalī́r iyáṃ vadhū́r imā́ṃ sametá páśyata | saúbhāgyam asyái dattvā́yāthā́staṃ ví paráitaná ||
Gather and behold this bride who is full of auspicious harmony; having bestowed upon her the power of good fortune, then depart each to your own home—let the blessing remain settled in her.
सु॒ऽम॒ङ्ग॒लीः । इ॒यम् । व॒धूः । इ॒माम् । स॒म्ऽएत॑ । पश्य॑त । सौभा॑ग्यम् । अ॒स्यै॒ । द॒त्त्वाय॑ । अथ॑ । अस्त॑म् । वि । परा॑ । इ॒त॒न॒ ॥सुमङ्गलीः । इयम् । वधूः । इमाम् । सम्एत । पश्यत । सौभाग्यम् । अस्यै । दत्त्वाय । अथ । अस्तम् । वि । परा । इतन ॥su-maṅgalīḥ | iyam | vadhūḥ | imām | sam-eta | paśyata | saubhāgyam | asyai | dattvāya | atha | astam | vi | parā | itana