Sukta 10.85
मा विदन्परिपन्थिनो य आसीदन्ति दम्पती । सुगेभिर्दुर्गमतीतामप द्रान्त्वरातयः ॥
मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती । सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ॥
mā́ vídan paripanthíno yá āsī́danti dámpatī | sugébhir durgám atītā́m ápa drā́ntv arā́tayaḥ ||
Let not the ambushers find the two who sit together as one house-lordship; by good goings may they pass beyond the hard passage—let the hostile powers be driven away and fall back.
मा । वि॒द॒न् । प॒रि॒ऽप॒न्थिनः॑ । ये । आ॒सीत् । अ॒न्ति॒ । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सु॒ऽगेभिः॑ । दुः॒ऽगम् । अति॑ । इ॒ता॒म् । अप॑ । द्रा॒न्तु॒ । अरा॑तयः ॥मा । विदन् । परिपन्थिनः । ये । आसीत् । अन्ति । दम्पती इति दम्पती । सुगेभिः । दुःगम् । अति । इताम् । अप । द्रान्तु । अरातयः ॥mā | vidan | pari-panthinaḥ | ye | āsīt | anti | dampatī itidam-patī | su-gebhiḥ | duḥ-gam | ati | itām | apa | drāntu | arātayaḥ