Sukta 10.85
ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु । पुनस्तान्यज्ञिया देवा नयन्तु यत आगताः ॥
ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ । पुन॒स्तान्य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ॥
yé vadhváś candráṃ vahatúṃ yakṣmā́ yánti janā́d ánu | púnas tā́n yajñíyā devā́ náyantu yátá ā́gatāḥ ||
Whatever wasting forces follow behind the bride to carry away her luminous joy, may the gods who uphold the sacrifice lead them back again to the place from which they came.
ये । व॒ध्वः॑ । च॒न्द्रम् । व॒ह॒तुम् । यक्ष्माः॑ । यन्ति॑ । जना॑त् । अनु॑ । पुन॒रिति॑ । तान् । य॒ज्ञियाः॑ । दे॒वाः । नय॑न्तु । यतः॑ । आऽग॑ताः ॥ये । वध्वः । चन्द्रम् । वहतुम् । यक्ष्माः । यन्ति । जनात् । अनु । पुनरिति । तान् । यज्ञियाः । देवाः । नयन्तु । यतः । आगताः ॥ye | vadhvaḥ | candram | vahatum | yakṣmāḥ | yanti | janāt | anu | punariti | tān | yajñiyāḥ | devāḥ | nayantu | yataḥ | āgatāḥ