Sukta 10.85
परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु । कृत्यैषा पद्वती भूत्व्या जाया विशते पतिम् ॥
परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ । कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पति॑म् ॥
parā dehi śāmulyaṃ brahmabhyo vi bhajā vasu | kṛtyaiṣā padvatī bhūtvī ā jāyā viśate patim ||
Cast away the śāmulya; distribute the riches to the brahmans. Let this kṛtyā become one that has a ‘footing’ elsewhere and depart; then the wife enters the lord—entering the true mastery of her being.
परा॑ । दे॒हि॒ । शा॒मु॒ल्य॑म् । ब्र॒ह्मऽभ्यः॑ । वि । भ॒ज॒ । वसु॑ । कृ॒त्या । ए॒षा । प॒त्ऽवती॑ । भू॒त्वी । आ । जा॒या । वि॒श॒ते॒ । पति॑म् ॥परा । देहि । शामुल्यम् । ब्रह्मभ्यः । वि । भज । वसु । कृत्या । एषा । पत्वती । भूत्वी । आ । जाया । विशते । पतिम् ॥parā | dehi | śāmulyam | brahma-bhyaḥ | vi | bhaja | vasu | kṛtyā | eṣā | pat-vatī | bhūtvī | ā | jāyā | viśate | patim