Sukta 10.85
इह प्रियं प्रजया ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि । एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः ॥
इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि । ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥
iha priyaṃ pra-jayā te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi | enā patyā tanvaṃ saṃ sṛjasvādha jivrī vidatham ā vadāthaḥ ||
Here may what is dear to you prosper through the growth of your creative offspring; in this home wake for the fire of the household. With this lord unite your whole being; then, living in fullness, may you both speak in the assembly of the rite.
इ॒ह । प्रि॒यम् । प्र॒ऽजया॑ । ते॒ । सम् । ऋ॒ध्य॒ता॒म् । अ॒स्मिन् । गृ॒हे । गार्ह॑ऽपत्याय । जा॒गृ॒हि॒ । ए॒ना । पत्या॑ । त॒न्व॑म् । सम् । सृ॒ज॒स्व॒ । अध॑ । जिव्री॒ इति॑ । वि॒दथ॑म् । आ । व॒दा॒थः॒ ॥इह । प्रियम् । प्रजया । ते । सम् । ऋध्यताम् । अस्मिन् । गृहे । गार्हपत्याय । जागृहि । एना । पत्या । तन्वम् । सम् । सृजस्व । अध । जिव्री इति । विदथम् । आ । वदाथः ॥iha | priyam | pra-jayā | te | sam | ṛdhyatām | asmin | gṛhe | gārha-patyāya | jāgṛhi | enā | patyā | tanvam | sam | sṛjasva | adha | jivrī iti | vidatham | ā | vadāthaḥ