Sukta 10.85
पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन । गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥
पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न । गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥
pūṣā tveto nayatu hasta-gṛhyāśvinā tvā pra vahatāṃ rathena | gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi ||
May Pūṣan lead you forward from here, taking you by the hand; may the Aśvins carry you onward in their chariot. Go to the home, becoming the mistress of the house, so that you may speak in the assembly with a free and harmonizing power.
पू॒षा । त्वा॒ । इ॒तः । न॒य॒तु॒ । ह॒स्त॒ऽगृह्य॑ । अ॒श्विना॑ । त्वा॒ । प्र । व॒ह॒ता॒म् । रथे॑न । गृ॒हान् । ग॒च्छ॒ । गृ॒हऽप॑त्नी । यथा॑ । असः॑ । व॒शिनी॑ । त्वम् । वि॒दथ॑म् । आ । व॒दा॒सि॒ ॥पूषा । त्वा । इतः । नयतु । हस्तगृह्य । अश्विना । त्वा । प्र । वहताम् । रथेन । गृहान् । गच्छ । गृहपत्नी । यथा । असः । वशिनी । त्वम् । विदथम् । आ । वदासि ॥pūṣā | tvā | itaḥ | nayatu | hasta-gṛhya | aśvinā | tvā | pra | vahatām | rathena | gṛhān | gaccha | gṛha-patnī | yathā | asaḥ | vaśinī | tvam | vidatham | ā | vadāsi