Sukta 10.85
प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवः । ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि ॥
प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेव॑: । ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥
pra tvā muñcāmi varuṇasya pāśād yena tvā abadhnāt savitā suśevaḥ | ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi ||
I release you forward from Varuṇa’s binding cord with which Savitṛ, the gracious, had bound you. In the womb of ṛta, in the world of the well‑made, I set you—unharmed—together with the lord of your being.
प्र । त्वा॒ । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । येन॑ । त्वा॒ । अब॑ध्नात् । स॒वि॒ता । सु॒ऽशेवः॑ । ऋ॒तस्य॑ । योनौ॑ । सु॒ऽकृ॒तस्य॑ । लो॒के । अरि॑ष्टाम् । त्वा॒ । स॒ह । पत्या॑ । द॒धा॒मि॒ ॥प्र । त्वा । मुञ्चामि । वरुणस्य । पाशात् । येन । त्वा । अबध्नात् । सविता । सुशेवः । ऋतस्य । योनौ । सुकृतस्य । लोके । अरिष्टाम् । त्वा । सह । पत्या । दधामि ॥pra | tvā | muñcāmi | varuṇasya | pāśāt | yena | tvā | abadhnāt | savitā | su-śevaḥ | ṛtasya | yonau | su-kṛtasya | loke | ariṣṭām | tvā | saha | patyā | dadhāmi