Sukta 10.85
अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् । समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवाः ॥
अ॒नृ॒क्ष॒रा ऋ॒जव॑: सन्तु॒ पन्था॒ येभि॒: सखा॑यो॒ यन्ति॑ नो वरे॒यम् । सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ॥
anṛkṣarā ṛjavāḥ santu panthā yebhiḥ sakhāyo yanti no vareyam | sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ ||
May the paths be unbroken and straight by which our comrades go to this our choosing. May Aryaman and Bhaga lead us together; and may the divine powers establish a well‑governed harmony in the lordship of the home.
अ॒नृ॒क्ष॒राः । ऋ॒जवः॑ । स॒न्तु॒ । पन्थाः॑ । येभिः॑ । सखा॑यः । यन्ति॑ । नः॒ । व॒रे॒ऽयम् । सम् । अ॒र्य॒मा । सम् । भगः॑ । नः॒ । नि॒नी॒या॒त् । सम् । जाः॒ऽप॒त्यम् । सु॒ऽयम॑म् । अ॒स्तु॒ । दे॒वाः॒ ॥अनृक्षराः । ऋजवः । सन्तु । पन्थाः । येभिः । सखायः । यन्ति । नः । वरेयम् । सम् । अर्यमा । सम् । भगः । नः । निनीयात् । सम् । जाःपत्यम् । सुयमम् । अस्तु । देवाः ॥anṛkṣarāḥ | ṛjavaḥ | santu | panthāḥ | yebhiḥ | sakhāyaḥ | yanti | naḥ | vare--yam | sam | aryamā | sam | bhagaḥ | naḥ | ninīyāt | sam | jāḥ-patyam | su-yamam | astu | devāḥ