Sukta 10.85
उदीर्ष्वातो विश्वावसो नमसेळा महे त्वा । अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज ॥
उदी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेळा महे त्वा । अ॒न्यामि॑च्छ प्रफ॒र्व्यं१॒॑ सं जा॒यां पत्या॑ सृज ॥
udīrṣv ato viśvavaso namaseḷā mahe tvā | anyām iccha pra-pharvyaṃ saṃ jāyāṃ patyā sṛja ||
Rise up from here, O Viśvāvasu; with reverence we invoke you. Seek another; release and set together the wife with the lord—let the true joining be accomplished.
उत् । ई॒र्ष्व॒ । अतः॑ । वि॒श्व॒व॒सो॒ इति॑ विश्वऽवसो । नम॑सा । ई॒ळा॒म॒हे॒ । त्वा । अ॒न्याम् । इ॒च्छ॒ । प्र॒ऽफ॒र्व्य॑म् । सम् । जा॒याम् । पत्या॑ । सृ॒ज॒ ॥उत् । ईर्ष्व । अतः । विश्ववसो इति विश्ववसो । नमसा । ईळामहे । त्वा । अन्याम् । इच्छ । प्रफर्व्यम् । सम् । जायाम् । पत्या । सृज ॥ut | īrṣva | ataḥ | viśvavaso itiviśva-vaso | namasā | īḷāmahe | tvā | anyām | iccha | pra-pharvyam | sam | jāyām | patyā | sṛja