Sukta 10.85
उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीळे । अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥
उदी॒र्ष्वात॒: पति॑वती॒ ह्ये॒३॒॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे । अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥
udīrṣv ataḥ pati-vatī hy eṣā viśvāvasuṃ namasā gīrbhir īḷe | anyām iccha pitṛ-sadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi ||
Rise up from here; for she is now a bearer of the lord within. With homage and with the word, I invoke Viśvāvasu. Seek another, clearly appointed for the Fathers’ world; that is your portion by birth—know it as such.
उत् । ई॒र्ष्व॒ । अतः॑ । पति॑ऽवती । हि । ए॒षा । वि॒श्वऽव॑सुम् । नम॑सा । गीः॒ऽभिः । ई॒ळे॒ । अ॒न्याम् । इ॒च्छ॒ । पि॒तृ॒ऽसद॑म् । विऽअ॑क्ताम् । सः । ते॒ । भा॒गः । ज॒नुषा॑ । तस्य॑ । वि॒द्धि॒ ॥उत् । ईर्ष्व । अतः । पतिवती । हि । एषा । विश्ववसुम् । नमसा । गीःभिः । ईळे । अन्याम् । इच्छ । पितृसदम् । विअक्ताम् । सः । ते । भागः । जनुषा । तस्य । विद्धि ॥ut | īrṣva | ataḥ | pati-vatī | hi | eṣā | viśva-vasum | namasā | gīḥ-bhiḥ | īḷe | anyām | iccha | pitṛ-sadam | vi-aktām | saḥ | te | bhāgaḥ | januṣā | tasya | viddhi