Sukta 10.85
पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् । विश्वान्यन्यो भुवनाभिचष्ट ऋतूँरन्यो विदधज्जायते पुनः ॥
पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळ॑न्तौ॒ परि॑ यातो अध्व॒रम् । विश्वा॑न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुन॑: ॥
pūrvāparáṃ carato māyáyaitáu śiśū́ krī́ḷantau pári yāto adhvarám | víśvāny anyó bhúvanābhícaṣṭa ṛtū́ṃr anyó vidadháj jā́yate púnaḥ ||
These two move, before and after, by a divine art, like two children playing as they circle the sacrifice. One beholds all the worlds; the other arranges the seasons—ever he is born again. Thus the twin powers reveal the cyclic law of renewal and the ordering intelligence of ṛta within time.
पू॒र्व॒ऽअ॒प॒रम् । च॒र॒तः॒ । मा॒यया॑ । ए॒तौ । शिशू॒ इति॑ । क्रीळ॑न्तौ । परि॑ । या॒तः॒ । अ॒ध्व॒रम् । विश्वा॑नि । अ॒न्यः । भुव॑ना । अ॒भि॒ऽचष्टे॑ । ऋ॒तून् । अ॒न्यः । वि॒ऽदध॑त् । जा॒य॒ते॒ । पुन॒रिति॑ ॥पूर्वअपरम् । चरतः । मायया । एतौ । शिशू इति । क्रीळन्तौ । परि । यातः । अध्वरम् । विश्वानि । अन्यः । भुवना । अभिचष्टे । ऋतून् । अन्यः । विदधत् । जायते । पुनरिति ॥pūrva-aparam | carataḥ | māyayā | etau | śiśūiti | krīḷantau | pari | yātaḥ | adhvaram | viśvāni | anyaḥ | bhuvanā | abhi-caṣṭe | ṛtūn | anyaḥ | vi-dadhat | jāyate | punariti