Sukta 10.85
यदयातं शुभस्पती वरेयं सूर्यामुप । क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥
यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ । क्वैकं॑ च॒क्रं वा॑मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ॥
yád ayā́taṃ śubhaspatī vareyáṃ sūryā́m úpa | kvàíkaṃ cakráṃ vām āsīt kvà deṣṭrā́ya tasthathuḥ ||
When you two lords of splendour came to win Sūryā, where was your single wheel, and where did you stand for the guiding rein?—so the seeker asks how the divine twins direct the movement when the visible means seems incomplete.
यत् । अया॑तम् । शु॒भः॒ । प॒ती॒ इति॑ । व॒रे॒ऽयम् । सू॒र्याम् । उप॑ । क्व॑ । एक॑म् । च॒क्रम् । वा॒म् । आ॒सी॒त् । क्व॑ । दे॒ष्ट्राय॑ । त॒स्थ॒थुः॒ ॥यत् । अयातम् । शुभः । पती इति । वरेयम् । सूर्याम् । उप । क्व । एकम् । चक्रम् । वाम् । आसीत् । क्व । देष्ट्राय । तस्थथुः ॥yat | ayātam | śubhaḥ | patī iti | vare--yam | sūryām | upa | kva | ekam | cakram | vām | āsīt | kva | deṣṭrāya | tasthathuḥ