Sukta 10.85
यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः । विश्वे देवा अनु तद्वामजानन्पुत्रः पितराववृणीत पूषा ॥
यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्याया॑: । विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ॥
yád aśvinā pṛcchámānāv ayā́taṃ tri-cakréṇa vahatúṃ sūryā́yāḥ | víśve devā́ ánu tád vām ajānan putráḥ pitárāv avṛṇīta pū́ṣā ||
When the Aśvins came asking and arrived for Sūryā’s three-wheeled procession, all the gods assented to your act. Then Pūṣan, the son, chose the two parents—so the guiding power establishes the right guardianship of the soul’s union.
यत् । अ॒श्वि॒ना॒ । पृ॒च्छमा॑नौ । अया॑तम् । त्रि॒ऽच॒क्रेण॑ । व॒ह॒तुम् । सू॒र्यायाः॑ । विश्वे॑ । दे॒वाः । अनु॑ । तत् । वा॒म् । अ॒जा॒न॒न् । पु॒त्रः । पि॒तरौ॑ । अ॒वृ॒णी॒त॒ । पू॒षा ॥यत् । अश्विना । पृच्छमानौ । अयातम् । त्रिचक्रेण । वहतुम् । सूर्यायाः । विश्वे । देवाः । अनु । तत् । वाम् । अजानन् । पुत्रः । पितरौ । अवृणीत । पूषा ॥yat | aśvinā | pṛcchamānau | ayātam | tri-cakreṇa | vahatum | sūryāyāḥ | viśve | devāḥ | anu | tat | vām | ajānan | putraḥ | pitarau | avṛṇīta | pūṣā