Sukta 10.85
सूर्याया वहतुः प्रागात्सविता यमवासृजत् । अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते ॥
सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् । अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु॑न्यो॒: पर्यु॑ह्यते ॥
sūryā́yā vahatúḥ prā́gāt savitā́ yám avā́sṛjat | aghā́su hanyante gā́vo 'rjúnyoḥ pár yuhyate ||
The bridal procession of Sūryā goes forth—Savitṛ has released it downward into manifestation. In the hostile darkness the rays (cows of light) are struck at; yet the bright force is carried around and borne through—protected by the right-moving power.
सू॒र्यायाः॑ । व॒ह॒तुः । प्र । अ॒गा॒त् । स॒वि॒ता । यम् । अ॒व॒ऽअसृ॑जत् । अ॒घासु॑ । ह॒न्य॒न्ते॒ । गावः॑ । अर्जु॑न्योः । परि॑ । उ॒ह्य॒ते॒ ॥सूर्यायाः । वहतुः । प्र । अगात् । सविता । यम् । अवअसृजत् । अघासु । हन्यन्ते । गावः । अर्जुन्योः । परि । उह्यते ॥sūryāyāḥ | vahatuḥ | pra | agāt | savitā | yam | ava-asṛjat | aghāsu | hanyante | gāvaḥ | arjunyoḥ | pari | uhyate